|
|
 |
 |
|
|
१० सौप्तिकपर्व.jpg)
॥ श्रीः ॥
10.9. अध्यायः 009
Mahabharata - Sauptika Parva - Chapter Topics
द्रौणिकृपकृतवर्मभिर्दुर्योधनमेत्य शोचनम्॥ 1 ॥ दुर्योधनम्प्रति द्रौणिना सुप्तजवधकथनम्॥ 2 ॥ दुर्योधनेन प्राणत्यागः॥ 3 ॥ द्रौण्यादीनां नगरगमनम्॥ 4 ॥ सञ्जयस्य व्यासानुग्रहप्राप्तदिव्यज्ञाननाशः॥ 5 ॥

Mahabharata - Sauptika Parva - Chapter Text
सञ्जय उवाच। 10-9-0x(5279)(64436)
ते हत्वा सर्वपाञ्चालान्द्रौपदेयांश्च सर्वशः।
आगच्छन्सहितास्तत्र यत्र दुर्योधनो हतः॥ 10-9-1(64437)
गत्वा चैनमपश्यन्त किञ्चित्प्राणं जनाधिपम्।
ततो रथेभ्यः प्रस्कन्द्य परिवव्रुस्तवात्मजम्॥ 10-9-2(64438)
तं भग्रसक्थं राजेन्द्र कृच्छ्रप्राणमचेतसम्।
वमन्तं रुधिरं वक्त्रादपश्यन्वसुधातले॥ 10-9-3(64439)
वृतं समन्ताद्बहुभिः श्वापदैर्घोरदर्शनैः।
सालावृकगणैश्चैव भक्षयिष्यद्भिरन्तिकात्॥ 10-9-4(64440)
निरायन्तं कृच्छ्रात्ताञ्श्वापदांश्च चिखादिषून्।
विवेष्टमानमुरुभ्यां सुभृशं गाढवेदनम्॥ 10-9-5(64441)
तं शयानं तथा दृष्ट्वा भूमौ सुरुधिरोक्षितम्।
हतशिष्टास्त्रयो वीराः शोकार्ताः पर्यदेवयन्।
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः॥ 10-9-6(64442)
तैस्त्रिभिः शोणितादिग्धौर्निः श्वसद्भिर्महारथैः।
शुशुभे स वृतो राजा वेदी त्रिभिरिवाग्निभिः॥ 10-9-7(64443)
ते तं शयानं सम्प्रेक्ष्य राजानमतथोचितम्।
अविषह्येन दुःखेन ततस्ते रुरुदुस्त्रयः॥ 10-9-8(64444)
ततस्तु रुधिरं हस्तैर्मुखान्निर्मृज्य तस्य हि।
रणे राज्ञः शयानस्य कृपः सम्पर्यदेवयत्॥ 10-9-9(64445)
कृप उवाच। 10-9-10x(5280)
न दैवस्यातिभारोऽस्ति यदयं रुधिरोक्षितः।
एकादशचमूभर्ता शेते दुर्योधनो हतः॥ 10-9-10(64446)
पश्य चामीकराभस्य चामीकरविभूषिताम्।
गदां गदाप्रियस्येमां समीपे पतितां भुवि॥ 10-9-11(64447)
इयमेनं गदा शूरं न जहाति रणेरणे।
स्वर्गायापि व्रजन्तं हि न जहाति यशस्विनम्॥ 10-9-12(64448)
पश्येमां सह वीरेण जाम्बूनदविभूषिताम्।
शयानां शयने हर्म्ये भार्यां प्रीतिमतीमिव॥ 10-9-13(64449)
योऽयं मूर्धाभिषिक्तानामग्रे याति परन्तपः।
स हतो ग्रसते पांसून्पश्य कालसय पर्ययम्॥ 10-9-14(64450)
येनाजौ निहता भूमौ शेरते क्षत्रियर्षभाः।
स भूमौ निहतः शेते कुरुराजः परैरयम्॥ 10-9-15(64451)
भयान्नमन्ति राजानो यस्य स्म शतसङ्घशः।
स वीरशयने शेते क्रव्याद्भिः परिवारितः॥ 10-9-16(64452)
यमुपासन्नृपाः पूर्वमर्थहेतोर्महीपतिम्।
उपात्पते च तं ह्यद्य क्रव्यादा मांसगृद्धिनः॥ 10-9-17(64453)
सञ्जय उवाच। 10-9-18x(5281)
तं शयानं कुरुश्रेष्ठं ततो भरतसत्तमम्।
अश्वत्थामा समालिङ्ग्य करुणं पर्यदेवयत्॥ 10-9-18(64454)
आहुस्त्वां राजशार्दूल मुख्यं सर्वधनुष्मताम्।
धनाध्यक्षोपमं युद्धे शिष्यं सङ्कर्षणस्य च॥ 10-9-19(64455)
कथं विवरमद्राक्षीद्भीमसेनस्तवानघ।
बलिनं कृतिनो नित्यं सूदः पापात्मवान्नृप॥ 10-9-20(64456)
कालो नूनं महाराज लोकेऽस्मिन्बलवत्तरः।
पश्यामो निहतं त्वां च भीमसेनेन संयुगे॥ 10-9-21(64457)
कथं त्वां सर्वधर्मज्ञं क्षुद्रः पापो वृकोदरः।
निकृत्या हतवान्मन्दो नून कालो दुरत्ययः॥ 10-9-22(64458)
द्वन्द्वयुद्धे ह्यधर्मेण समाहूयौजसा मृधे।
गदया भीमसेनेन निर्भग्ने सक्थिनी तव॥ 10-9-23(64459)
अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः।
य उपेक्षितवान्क्षुद्रं धिक्तमस्तु--युधिष्ठिरम्॥ 10-9-24(64460)
युद्धेष्वपवदिष्यन्ति योधा नूनं वृकोदरम्।
यावत्स्थास्यन्ति भूतानि निकृत्या ह्यसि पातितः॥ 10-9-25(64461)
ननु रामोऽब्रवीद्राजंस्त्वां सदा यदुनन्दनः।
दुर्योधनसमो नास्ति गदायामिति वीर्यवान्॥ 10-9-26(64462)
श्लाघते त्वां हि वार्ष्णेयो राजन्संसत्सु भारत।
स शिष्यो मम कौरव्यो गदायुद्ध इति प्रभो॥ 10-9-27(64463)
यां गतिं क्षत्रियस्याहुः प्रशस्तां परमर्षयः।
हतस्याभिमुखस्याजौ प्राप्तस्त्वमसि तां गतिम्॥ 10-9-28(64464)
दुर्योधन न शोचामि त्वामहं पुरुषर्षभ।
हतपुत्रौ तु शोचामि गान्धारीं पिरं च ते॥ 10-9-29(64465)
द्वावनाथौ कृतौ वीर त्वया नाथेन वर्धितौ।
भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम्॥ 10-9-30(64466)
घिगस्तु कृष्णं वार्ष्णेयमर्जुनं चापि दुर्मतिम्।
धर्मज्ञमानिमौ यौ त्वां वध्यमानमुपेक्षताम्॥ 10-9-31(64467)
पाण्डवाश्चापि ते सर्वे किं वक्ष्यन्ति नराधिप।
कथं दुर्योधनोऽस्माभिर्हत इत्यनपत्रपाः॥ 10-9-32(64468)
धन्यस्त्वमसि गान्धारे यस्वमायोधने हतः।
प्रयातोऽभिमुखः शत्रून्धर्मेण पुरुषर्षभ॥ 10-9-33(64469)
हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवा।
प्रज्ञाचक्षुश्च दुर्धर्षः कां दशां प्रतिपत्स्यते॥ 10-9-34(64470)
धिगस्तु कृतवर्माणं मां कृपं च महारथम्।
ये वयं न गताः स्वर्गं त्वां पुरस्कृत्य पार्थिवम्॥ 10-9-35(64471)
दातारं सर्वकामानां रक्षितारं प्रजाहितम्।
यद्वयं नानुगच्छाम त्वां धिगस्मान्नराधमान्॥ 10-9-36(64472)
कृपस्य तव वीर्येण मम चैव पितुश्च मे।
सभृत्यानां नरव्याघ्र रत्नवन्ति गृहाणि च॥ 10-9-37(64473)
तव प्रसादादस्माभिः समित्रैः सह बान्धवैः।
अवाप्ताः क्रतवो मुख्या बहवो भूरिदक्षिणाः॥ 10-9-38(64474)
कुतश्चापीदृशं पापाः प्रवर्तिष्यामहे वयम्।
यादृशेन पुरस्कृत्य त्वं गतः सर्वपार्थिवान्॥ 10-9-39(64475)
वयमेव त्रयो राजन्गच्छन्तं परमां गतिम्।
यद्वै त्वां नानुगच्छाभस्तेन तप्स्यामहे वयम्। 10-9-40(64476)
तत्स्वर्गहीना हीनार्थाः स्मरन्तः सुकृतस्य ते।
किं नाम तद्भवेत्कर्म येन त्वां न व्रजाम वै॥ 10-9-41(64477)
दुःखं नून कुरुश्रेष्ठ चरिष्याम महीमिमाम्।
हीनानां नस्त्वया राजन्कुतः शान्तिः कुतः सुखं॥ 10-9-42(64478)
गत्वैव तु महाराज समेत्य च महारथान्।
यथाज्येष्ठं यथाश्रेष्ठं पूजयेर्वचनान्मम॥ 10-9-43(64479)
आचार्यं पूजयित्वा च केतुं सर्वधनुष्मताम्।
हतं मयाऽद्य शंशेथा दृष्टद्युम्नं नराधिप॥ 10-9-44(64480)
परिष्वजेथा राजानं बाह्लिकं सुमहारथम्।
सैन्धवं सोमदत्तं च भूरिश्रवसमेव च॥ 10-9-45(64481)
तथा पूर्वगतानन्यान्स्वर्गे पार्थिवसत्मान्।
अस्मद्वाक्यात्परिष्वज्य सम्पृच्छेस्वमनामयम्॥ 10-9-46(64482)
सञ्जय उवाच। 10-9-47x(5282)
इत्येवमुक्वा राजानं भग्नसक्थमचेतसम्।
अश्वत्थामा लघुप्राणं पुनर्वचनमब्रवीत्॥ 10-9-47(64483)
दुर्योधन जीवसि चेद्वाक्यं श्रोत्रमुखं शृणु।
सप् पाण्डवतः शिष्टा धार्तराष्ट्रास्त्रयो वयम्॥ 10-9-48(64484)
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः।
अहं च कृतवर्मा च कृपः शारद्वतस्तथा॥ 10-9-49(64485)
द्रौपदेया हताः सर्वे धृष्टद्युम्नस्य चात्मजाः।
पञ्चाला निहताः सर्वे मत्स्यशेषं च भारत॥ 10-9-50(64486)
कृते प्रतिकृतं पश्य हतपुत्रा हि पाण्डवाः।
सौप्तिके शिबिरं तेषां हतं सनरवाहनम्॥ 10-9-51(64487)
मया च पापकर्माऽसौ धृष्टद्युम्नो महीपते।
प्रविश्य शिबिरं रात्रौ पशुमारेण मारितः॥ 10-9-52(64488)
दुर्योधनस्तु तां वाचं निशम्य मनसः प्रियाम्।
प्रतिलभ्य पुनश्चेत इदं वचनमब्रवीत्॥ 10-9-53(64489)
न मेऽकरोत्द्गाङ्गेयो न कर्णो न च ते पिता।
यत्त्वया कृपभोजाभ्यां सहितेनाद्य मे कृतम्॥ 10-9-54(64490)
स च सेनापतिः क्षुद्रो हतः सार्धं शिखण्डिना।
तेन मन्ये मघवता सममात्मानमद्य वै॥ 10-9-55(64491)
स्वस्ति प्राप्नुत भद्रं वः स्वर्गे नः सङ्गमः पुनः।
इत्येवमुक्त्वा पुत्रस्ते कुरुराजो महामनाः॥ 10-9-56(64492)
प्राणानुपासृजद्वीरः सुहृदां दुःखमादधत्।
अपाक्रामद्दिवं पुण्यां शरीरं क्षितिमाविशत्॥ 10-9-57(64493)
एवं ते निधनं यातः पुत्रो दुर्योधनो नृप।
अग्रे यात्वा रणे शूरः पश्राद्विनिहतः परैः॥ 10-9-58(64494)
तथैव ते परिष्वक्ताः परिष्वज्य च ते नृपम्।
पुनः पुनः प्रेक्षमाणाः स्वकानारुरुहू रथान्॥ 10-9-59(64495)
इत्येवं द्रोणपुत्रस्य निशम्य करुणां गिरम्।
प्रत्यूषकाले शोकार्ताः प्राद्रवन्नगरं प्रति॥ 10-9-60(64496)
एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः।
घोरो विशसनो रौद्रो राजन्दुर्मन्त्रिते तव॥ 10-9-61(64497)
तव पुत्रे गते स्वर्गं शोकार्स्य ममानघ।
ऋषिदत्तं प्रनष्टं तद्दिव्यदर्शित्वमद्य वै॥ 10-9-62(64498)
वैशम्पायन उवाच। 10-9-63x(5283)
इति श्रुत्वा स नृपतिर्ज्ञातिपुत्रवधं तदा।
निःश्वस्य दीर्घमुष्णं च ततश्चिन्तापरोऽभवत्॥ ॥ 10-9-63(64499)
इति श्रीमन्महाभारते सौप्तिकपर्वणि नवमोऽध्यायः॥ 9 ॥
Mahabharata - Sauptika Parva - Chapter Footnotes
10-9-17 उपासत द्विजाः पूर्वमर्थहेतोर्यमीश्वरमिति झ.पाठः॥ 10-9-23 धर्मयुद्धे ह्यधर्मेणेति झ.पाठः॥ 10-9-9 नवमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|